Saturday, July 09, 2005

वार्षिक-मेलनम् - 2005

vm2005

Instructions: This is unicode text. Follow these instructions:
  • IE:Click on View Menu -> Encoding -> Select Unicode UTF-8
  • Firefox: Click on View Menu -> Character Encoding -> Select Unicode UTF-8.


नमः सर्वेभ्यः
श्री कृष्णशास्त्रीमहोदयः अमेरिकादेशं आगतवान् | अस्माकं मार्गदर्शनं कृतवान् | एते सन्ति मेलन-बिन्दवः |

प्रथमं सत्रम् |
दिनाङ्कः ९ जून २००५
उपस्थित-जनाः - श्री कृष्णशास्त्रीमहोदयः विठ्ठलमहोदयः कृष्णः श्रीकान्तः माधवीभगिनी चारूभगिनी श्रीनिवसमहोदयः मधुमहोदयः हरिः चेतनः नरेन्द्रः

सञ्चालक:
लिपिकारः

१ " ध्येयपथिक साधक " गीतं गीतवन्तः |
- गीते मातरं इत्युक्ते "भारतमाता" इति |

२ स्वपरिचयः अभवत् |
- कालांशस्य सारांशः " संस्कृतम् संस्कृत-भारती अहं च "

विठ्ठलमहोदयः
अध्यक्षः पत्रालयद्वारा संस्कृतम् | शिक्षणे प्रीतिः |

कृष्णः
विभा कार्यकर्ता | शिक्षकः | पुस्तक-भान्डारकारः अभ्यासवर्गं चालितवान् | शिक्षणे प्रीतिः | पठति यतः अनुवादस्य आवश्यकता न भवेत् |


श्रीकान्तः
वेदमन्त्राणां | पठनं शिक्षकः | प्रीतिः |

माधवी
सियाट्ल नगरतः | शिक्षिका (पतिः आपि) | किमर्थम् न इति पृच्छति | पुत्री अपि पठतु |

शारदा
सेक्रमेन्टो त:| शिक्षिका | जालपुटे प्रीतिः | कारणं न जानाति संस्कृतं किमर्थं पठति एतस्य प्रश्नस्य | स्वस्य कृते एव |

स्वप्ना
बे एरिआ शिवाजी महोदयस्य पत्नी | प्रीतिः | (संस्कृत-गृहम्)

वासवी
सन् होसे त:| गृहिणी | कनिष्ठ पुत्रः विद्यालये अस्ति | अधिकं पठितुम् इच्छति | श्लोकेषु प्रीतिः | अपत्यानि अपि पठन्तु | परिवर्तम् अभवत् गृहे संस्कृतेन |

बेला
बे एरिआ चिन्मय-मिशन मध्ये कार्यम् करोति | संस्कृत्याम् रुचिः |

चारूभगिनी
एम् ए शिक्षिका अध्यापने प्रीतिः | बहुनि कारणानि | संस्कृते कार्ये समीचिनाः जनाः सन्ति तेषाम् परिचयः भवति | जीवने प्रभावः अस्ति जनानाम् | जीवन-परिवर्तनम् अभवत् |

श्रीनिवासः
छात्रः कार्यकर्ता | गीतायां प्रीतिः | सम्भ्रमः अस्ति |

प्रभुः
फ़िनिक्स् कार्यकर्ता सङ्घटकः | बाल्यकालतः पठितवान् | संस्कृते प्रीतिः | भारत-शास्त्रे प्रीतिः वृद्धा |

मधुसुदनः
बे एरिआ कार्यकर्ता पुस्तक-भान्डारकारः | संस्कृत-ज्ञानार्थम् |

हरिः
बे एरिआ कार्यकर्ता पुस्तक-भान्डारकारः पत्रलेखनम् सङ्घटकः | पिता वैद्यः आसीत् | संस्कृते प्रीतिः | अनेकानि कारणानि |

दिनेशः
बे एरिआ कार्यकर्ता | पुस्तक-भान्डारकार-सहायकः | बाल्यकालतः संस्कृते प्रीतिः | भारतीय -विद्या-भवनं गन्तुम् इष्टवान् | वर्षद्वय-पूर्वम् संस्कृत-भारत्याः सङ्दर्भे ज्ञातवान् |

चेतनः
बे एरिआ कार्यकर्ता| शिक्षकः चिन्मय-मिशनमध्ये पठति अपि च पाठयति | सुभाषितेषु प्रीतिः | पुस्तकानि अपर्याप्तानि आसन् | ९५ तः कार्यकर्ता | वेदे प्रीतिः | उपनिषति प्रीतिः |

अविनाशः
बे एरिआ श्लोक-स्पर्धा सङ्ग्रह-सज्जिकारः | गीतायाम् प्रीतिः | ज्ञानार्थम् | कुतुहलम् अस्ति | विवाहे तु पुरोहिताः मङ्गलश्लोकानां घोषं कृतवन्तः परन्तु तस्य अर्थं न स्पष्टिकृतवन्तः | तेषाम् अर्थं ज्ञातुम् उद्युक्तः |

नरेन्द्रः
बोस्टन्तः शिक्षकः सम्भाषण-सन्देशस्य कार्यम् "स्वाध्याय-कार्यकर्ता" | संस्कृति-रक्षा | स्वाध्याय-रुपेण | अध्यापने रुचिः |

शिवाजी
शिक्षिक:| वेदे रुचिः| बहुनि शिबिराणि पाठितवान् | ज्ञानार्थम् पठति |

गोविन्दः
बे एरिआ सचिवः| सञ्चालकः |शिक्षिकः| सप्त वर्षाणि कार्यकर्ता | बाल्यकालतः पठितुम् उद्युक्तः | peer pressure asIt |
मनोरञ्जनार्थम् | सर्वे जानन्तु इति इच्छा |

नारायणः
बे एरिआ नाटक-निर्देशकः| शिबिराणि चालितवान् | कार्यकर्ता | भाषायाम् शास्त्रः अस्ति इति श्रद्धा |

राघवेन्द्रः स्वामी
कार्यकर्ता ९५ तः सङ्घस्य कार्यकर्ता | माता किमर्थम् इति पृच्छति | जीवने परिवर्तनं भवति | उन्नतिः अभवत् | कार्यम् करणीयम् |

केदारः
कार्यकर्ता | शिबिरं पाठितवान् | अभ्यासवर्गान् चालितवान् | प्रीतिः |संस्कृतं एतस्मै वायुः इव | खेदः आस्ति यतः जनाः न जानन्ति एतां भाषाम् |

गिरिधरः
बोस्टन्तः आगच्छति | प्रभोः अग्रजः | पठने प्रीतिः | परन्तु गृहे कालः न लभते | संस्कृतम् अकस्मात् आगतम् |

कृष्णशास्त्रीमहोदयः
सङ्घटनमन्त्री भाषा-शिक्षणे प्रीतिः | १९७५-७७ भारते "आपत्कालः" आसीत् | तदा सङ्घकार्यकर्ता | मनः भ्रान्तम् आसीत् | चिन्तनम् आसीत् - देशस्य विषये, स्व-विषये च | विवेकानन्दस्य पुस्तकानि पठितवान् | "ध्येयम्" किम् इति विचारः | मार्गः कः ? इति विचारः | भाषा-माध्येमेन उत्थापनं करनीयम् इति चिन्तितवान् | तिरुपतिं गतवान् | बीजम् आवश्यकः परन्तु परिसरः अपि आवश्यकः |

अनुपस्थिताः जनाः
राजेशः गिरिः समीरः विद्या-राम रेवती श्रीनाथ श्रीकान्त मिश्रा कृष्णप्रसादः अनुराधा राघवेन्द्र गिरिशः शेषाद्री विक्रमः ५ जनाः board of directors(कामेश: द्विवेदी सुखदेव: रमेशः खन्डेराव) वसुवजः कृष्णकुमारः शिवराम भटः हेमा उषा शारदा शिवप्रसादः

द्वीतियं सत्रम् |
कृष्णशास्त्रीमहोदयः उक्तवान् |
संस्कृतं केवलं भाषा नास्ति|
एतत् तु जीवनदर्शनम् | १४ विद्याः ६४ कलाः च पठितव्याः |
एकं पुस्तकं पठतु -- "The beautiful tree - Prof. DharmapAlaH" |

- गीता उपनिषत् ज्योतिष्यम् सर्वस्य किञ्चिदेव परिचयः विश्वे इदानिम् अभवत् |
- जीवनानुभवं अग्रे नेतुम् इच्छामः |
- भारते सर्वत्र अहं पृच्छामि -- "किमर्थं जीवति भवान् , भवती?"
- जीवनं कथं करणीयम्?
- संस्कृत-भाषा अस्माकं सम्बन्धं कल्पयति केन सह? - संस्कृत्या सह | अस्मान् योजयति अपि |
- व्यष्टिः समष्टिः परमेष्टिः |
- जनेषु विचारपरिवर्तनं करणीयम् | भाषा उपलब्धा भवेत् |
- अभ्यास-सोपानानि चिन्तनीयानि कार्यकर्तृभिः | इदानिं समयः आगतः |
- देवदत्त पाटिल: पुणे नगरे रामानुज-ताताचार्यः बेङ्गलुरु नगरे इति विद्वज्जनाः सन्ति | तान् मिलन्तु |
- अड्यार्-ग्रन्थालये, तन्जावुर-ग्रन्थालये बहुनि पुस्तकानि बहवः ग्रन्थाः च सन्ति | ७ लक्षानि हस्तलिखितानि सन्ति | महत् भान्डारम् अस्ति |
- जनैः एतत् सर्वं लब्धं भवेत् |
- संस्कृतिः इत्युक्ते किम्?
-- बहुविधा अस्ति सा |
- धर्मः कः?
  • धारणात् धर्मः |
  • कस्य धारणम् ? स्वस्य, सृष्टेः प्रकृतेः |
- अमेरिका देशे सर्वेषां शिक्षणं कुर्मः | एते विश्वनायकाः भवेयुः |
- यतो धर्मः ततो जयः | सः धर्मः अभिप्रेतः |
- जीवने "अर्थः" आवश्यकः | परन्तु यद्यपि "अर्थ-केन्द्रितम्" जीवनम् अस्ति तर्हि विचारस्य प्रचारः भवतु |
- भाषा माध्यमेन विश्वस्य उन्नतिः करणीया | कार्ययोजना आवश्यकी |
- जीवनस्य आधारः -- परस्पर-सम्बन्धा: |
- शब्दत्रयम् - "प्रकृतिः विकृतिः संस्कृतिः "
  1. अहं खादामि
  2. बुभुक्षया विना खादामि
  3. इतरेभ्यः दत्त्वा खादामि

- कुटुम्बं विस्तृतं कुर्वन्तः भवन्तु |
- तत्त्वाधारित-कार्यरचना आवश्यकी | समय-समर्पणम् | प्रतिभा-समर्पणम् |
- मम प्रसिद्धिं मा करोतु |
- आगामि-दिनेषु सम्भाषण-शिबिरद्वारा, साप्ताहिक-मेलनद्वारा, पक्ष-मेलनद्वारा, अग्रे गन्तव्यम् |
- गीता-शिक्षणम् , अन्य-शिक्षणम्
- सङ्घटन-दृष्ट्या कानिचन कार्याणि
  • एकं लक्षं स्वीकृत्य प्रीति-वर्धनं भवतु | स्नेह-बन्धनम् आवश्यकम् |
  • नियमित-रुपेण मेलितव्यम् |
  • किमर्थं कार्यं न जातम्? सङ्घटनं नासीत् | अतः सङ्घटनम् आवश्यकम् |
  • "संस्कृतभारती" इति पुस्तकं पठनीयम् |
  • कार्यपद्धतिः विकासनीया | दूरगामी चिन्तनम् आवश्यकम् |
  • "संस्कृतम् इति मम जीवन-व्रतम्" करणीयम् |
  • यावत् प्राप्नुमः तस्य अपेक्षया अधिकं दातव्यम् | अतः पाठयन्तु |
  • "संस्कृतभारती" कार्येषु मम सहभागः | शिक्षणात्म्कं कार्यम् | प्रचारात्मकं कार्यम् | सङ्घटनात्मकं कार्यम् |
  • विश्वे यदा नूतनं किमपि करणीयम् अस्ति तदा सर्वान् जनान् तेन कार्येण सह योजयन्तु |
  • कदा शरीरम् त्यक्ष्यामः? यदा एतस्य अपेक्षया सुन्दरं विश्वं निर्माप्य एव!

एतदेव !

प्रश्नोत्तराणि:
१ कृष्णः - कथं बन्धितव्यम् अन्यान् ?
  • केवलं बीजवापः आवश्यकः शिशुनां कृते
  • प्रौढानाम् कृते - रुचिम् उत्पादयितुम् प्रयत्नम् कुर्वन्तु | उदासिनाम् कृते नूतनान् ददतु |
२ माधवी - एवमेव संस्कृत-भाषणं कुर्वन्तु | निरन्तरं कुर्वन्तु |




0 Comments:

Post a Comment

<< Home